Srimad Valmiki Ramayanam

Balakanda Sarga 76

Parasurama- 3 !!

||om tat sat ||

बालकांड
षट्सप्ततिमस्सर्गः

श्रुत्वा च जामदग्न्यस्य वाक्यं दाशारथिस्तदा ।
गौरवाद्यंत्रित कथः पितूरामम् अथाब्रवीत् ॥

स॥ पितू गौरवाद्यत्रित रामम् दाशरथिः तदा जामदग्न्यस्य वाक्यं श्रुत्वा अथ अब्रवीत् ॥

Rama who was silent out of respect for his father now spoke after hearing the words of Parasurama, the son of Jamadagni.

श्रुतवानस्मि यत्कर्म कृतवानपि भार्गव ।
अनुरुंध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः॥
वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव ।
अवजानासि मेतेजः पश्य मेsद्य पराक्रमम् ॥

स॥ हे ब्रह्मन् !हे भार्गव ! पितुरानृण्यमास्थितः अनुरुंध्यामहे यत्कर्म कृतवान् अपि श्रुतवानस्मि ।हे भार्गव ! वीर्यहीनं अशक्तं इव मे तेजः अवजानासि । अद्य मे पराक्रमम् पश्य ॥

" O Brahman ! O Bhargava ! I am aware of what you have done to redeem your father, congratulations. O Bhargava ! You have insulted me saying that I am powerless and incapable. Now you can see my valor".

इत्युक्त्वा राघवः कृद्धो भार्गवस्य शरासनम् ।
शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ॥
आरोप्य सधनू रामः शरं सज्यं चकार ह ।
जामदग्न्यं ततो रामं रामः क्रुद्धोsब्रवी द्वचः ॥

स॥ इति उक्त्वा क्रुद्धो रामः लघु पराक्रमः भार्गवस्य शरासनम् शरं च हस्तात् प्रतिजग्राह ॥रामः शरं सज्यं चकार स धनू आरोप्य ततः रामः क्रुद्धः जामदग्न्यं रामं अथ अब्रवीत् ॥

Saying so valiant Rama effortlessly snatched the bow from Parasurama's hands. Then stringing the bow with an arrow , the angry Rama spoke to the son of Jamadagni.

ब्राह्मणोsसीति पूज्यो मे विश्वामित्रकृतेन च ।
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम्॥
इमां पादगतिं राम तपोबलसमार्जितान् ।
लोकानप्रतिमान् वाते हनिष्यामि यदिछ्चसि ॥
न ह्ययं वैषणवो दिव्यः शरः परपुरंजयः ।
मोघः पतति वीर्येण बलदर्प विनाशनः ॥

स॥ ब्राहणः असि विश्वामित्रकृतेन च इति मे पूज्यः । हे राम तस्मात् प्राणहरं मोक्तुम् न शक्तः ॥ इमां पादगतिं वा तपोबलसमन्वितान् अप्रतिमान् लोकान् यदिछ्चसि ते हनिष्यामि ॥अयं वैष्णवः दिव्यः परपुरंजयः शरः वीर्येण बलदर्प विनाशनः मोघः न पतति॥

"You are a Brahmin and related to Viswamitra so you are to be respected .Oh Pasarurama so I cannot take your life. I will destroy your ability to move or the unparalleled Lokas you acquired with the power of your penance depending on your choice. This is a Vaishnava arrow. It is Devine. It can destroy the enemies camps. It will destroy the power and arrogance too. It does not fail".

वरायुधधरं रामं द्रष्टुं सर्षिगणास्सुराः ।
पितामहं पुरस्कृत्य समेतास्तत्र संघशः ॥
गंधर्वाप्सरसश्चैव सिद्धचारण किन्नराः ।
यक्षराक्षसनागाश्च तद्रष्टुं महदद्भुतम्॥

Suras along with Rishis following Brahma gathered there to witness Rama carrying the best of arms. Gandharvas, along with Siddhas Charanas Kinnaras Yakshas Rakshasas and Nagas too came to see that wonderful spectacle.

स॥ रामंवरायुध धरं द्रष्टुं पितामहं पुरस्कृत्य सुराः स ऋषिगणाः संघशः तत्र समेताः । सिद्धचारण किन्नराः गंधर्व अप्शरसश्च एव यक्षराक्षस पन्नगाः च तत् महत् अद्भुतम् द्रष्टुं (समेताः) ॥

जडीकृते तदा लोके रामे रामे वरधनुर्धरे ।
निर्वीर्यो जामदग्न्योsसौ रामो राममुदैक्षत ॥
तेजोभिहतवीर्यत्वात् जामदग्न्यो जडीकृतः ।
रामं कमलपत्राक्षं मंदं मंदमुवाचह ॥

स॥ रामे वर धनुर्धरे तदा लोके जडीकृते । असौ रामः जामदग्न्यः निर्वीर्यः रामं उदैक्षत ॥ वीर्यत्वात् जडीकृतः तेजोभिहतः रामं कमलपत्राक्षं मंदं मंदमुवाच ह ॥

With Rama carrying those best of arms the world came to stand still. Parasurama lost his powers was looking at Rama in awe. With his power declining , his prowess destroyed he slowly addressed Rama who has eyes resembling a lotus.

काश्यपाय मयादत्त्वा यदा पूर्वं वसुंधरा।
विषये मे न वस्तव्यं इति मां काश्यपोsब्रवीत् ॥
सोsहंगुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् ।
कृता प्रतिज्ञा काकुत्‍स्थ कृता भूः काश्यपस्य हि॥
तदिमां त्वं गतिं वीर हंतुं नार्हसि राघव ।
मनोजवं गमिष्यामि महेंद्रं पर्वतोत्तमम् ॥

स॥ पूर्वं मया वसुंधरा काश्यपाय दत्वा मां काश्यपः मे विषये न वस्तव्यं इति अब्रवीत् ॥सोsहं गुरुवचः कुर्वन् पृथिव्यां न वसे । हे काकुत्‍स्थ कृता प्रतिज्ञा काश्यपस्य भूः निशाम् ॥ हे राघव हे वीर तत् इमां गतिं हंतुं न अर्हसि । महेंद्रं पर्वतोत्तमम् मनोजवं गमिष्यामि ॥

" In the earlier times when I gave away these lands to Kasyapa he told me that I should no longer stay there. Hence to abide by my Gurus words I will not stay on this land. Oh Kakustha! I have taken a vow not to stay in the land of Kasyapa . O Rama ! O Hero ! Do not destroy my ability to move. I will go to the Mahendra mountain very quickly with the speed of mind".

लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।
जहि तान् शरमुख्येन माभूत् कालपर्ययः ॥
अक्षयं मधुहर्तारं जानामि त्वां सुरेश्वरम् ।
धनुष्योsस्य परमर्शात् स्वस्ति तेsस्तु परंतप ॥

स॥ हे राम मया लोकात् अप्रतिमा तपसा तान् शरमुख्यान् जहि निर्जिता । माभूत् कालपर्ययः ॥हे परंतप ! अस्य धनुषस्य परामर्शात् त्वां अक्षयं मधु हर्तारं सुरेश्वरं जानामि ॥

"Oh Rama ! With your arrow destroy the unparalleled lokas acquired by me with my penance. Do not delay. Oh Tormentor of foes ! From the way you handled the celestial bow I know you are none other than the one who killed the demon Madhu and the imperishable Lord of Devas"

एते सुरगणास्सर्वे निरीक्षंते समागताः ।
त्वामप्रतिकर्माणम् अप्रतिद्वंद्वमाहवे ॥
न चेयं ममकाकुत्‍स्थ व्रीडा भवितुमर्हति ।
त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥
शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत ।
शरमोक्षे गमिष्यामि महेंद्रम् पर्वतोत्तमम् ॥

स॥ एते सर्वे सुरगणाः समागताः त्वां अप्रतिकर्माणम् अप्रतिद्वंद्वमाहवे निरीक्षंते ॥हे काकुत्‍स्थ ! त्वया त्रैलोक्यनाथेन यत् अहं विमुखी कृतः अयं मम न व्रीडा भवितुं अर्हति ॥हे राम ! हे सुव्रत ! अप्रतिमं शरं मोक्तुं अर्हसि । शरमोक्षे पर्वतोत्तमम् महेंद्रं गमिष्यामि ॥

" The legions of Suras have assembled to see you. You have unparalleled power and you are capable of wonderful deeds. Oh Kakutstha ! To be defeated by you, the leader of all the three worlds is nothing to be ashamed of . O Rama ! You let go the arrow which has no answer. After the release of that arrow I will go to Mahendra mountains"

तदाब्रुवति रामेतु जामदग्न्ये प्रतापवान् ।
रामो दाशरथिः श्रीमान् चिक्षेप शरमुत्तमम् ॥
स हतान् दृश्य रामेण स्वान् लोकांस्तपसार्जितान् ।
जामदग्न्यो जगामाशु महेंद्रं पर्वतोत्तमम् ॥

स॥ तदा प्रतापवान् जामदग्न्ये रामे ब्रुवति तदा श्रीमान् दाशरथिः रामो उत्तमम् शरं चिक्षेप ॥ रामेण स्वान् तपसार्जितान् लोकां हतान् दृश्य स जामद्ग्न्यः पर्वतोत्तमं महेंद्रं जगामाशु॥

After Parasurama said so then Rama son of Dasaratha let go that Devine arrow. With all the power of his penance destroyed by Rama's arrow , Parasurama then left for that best of mountains , the Mahendra mountain.

ततो वितिमिरास्सर्वे दिशश्चोपदिशस्तथा।
सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥
रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।
ततः प्रदक्षिणम् कृत्वा जगामात्मगतिं प्रभुः ॥

स॥ ततः दिशश्च उपदिशश्च सर्वे वितिमिराः । सुराः स ऋषिगणाः उदायुथं रामं प्रशशंसुः ॥रामः जामदग्न्यः दाशरथिं रामं प्रशस्य प्रदक्षिणं कृत्वा प्रभुः आत्मगतिं जगाम ॥

Then the darkness in all directions vanished. Devas along with Rishis praised Rama. Parasurama too having made obeisance to Rama and going around him as a mark of respect went his way.

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे षट्सप्ततिमस्सर्गः ॥

Thus the seventy sixth Sarga comes to an end .

|| ओम् तत् सत् ||

||Om tat sat ||